(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.192. अध्यायः 192
Mahabharata - Drona Parva - Chapter Topics
अश्वत्थामवधश्रवणनिर्विण्णद्रोणमारणाय धृष्टद्युम्नसमुद्यमः॥ 1 ॥ द्रोणग्रस्तस्य धृष्टद्युम्नस्य सात्यकिना विमोचनम्॥ 2 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-192-0x(4774)(53950)
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम्।
पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत्॥ 7-192-1(53951)
य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे।
लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात्॥ 7-192-2(53952)
स धनुर्जैत्रमादाय घोरं जलदनिःस्वनम्।
दृढज्यमजरं दिव्यं शरं चाशीविषोपमम्॥ 7-192-3(53953)
सन्दधे कार्मुके तस्मिंस्ततस्तमनलोपमम्।
द्रोणं जिघांस्तुः पाञ्चाल्यो महाज्वालमिवानलम्॥ 7-192-4(53954)
तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे।
द्योततो भास्करस्येव घनान्ते परिवेषिणः॥ 7-192-5(53955)
पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः।
अन्तकालमनुप्राप्तं मेनिरे वीक्ष्य सैनिकाः॥ 7-192-6(53956)
तमिषुं संहतं तेन भारद्वाजः प्रतापवान्।
दृष्ट्वाऽमन्यत देहस्य कालपर्यायमागतम्॥ 7-192-7(53957)
ततः प्रयत्नमातिष्ठदाचार्यस्तस्य वारमे।
न चास्यास्त्राणि राजेन्द्र पादुरासन्महात्मनः॥ 7-192-8(53958)
तस्य त्वहानि चत्वारि क्षपा चैकाऽस्यतो गता।
तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः॥ 7-192-9(53959)
स शरक्षयमासाद्य पुत्रशोकेन चार्दितः।
विविधानां च दिव्यामानमस्त्राणामप्रसादतः॥ 7-192-10(53960)
उत्स्रष्टुकामः शस्त्राणि ऋषिवाक्यप्रचोदितः।
तेजसा पूर्यमाणश्च युयुधे न यथा पुरा॥ 7-192-11(53961)
भूयश्चान्यत्समादाय दिव्यमाङ्गिरसं धनुः।
शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत्॥ 7-192-12(53962)
ततस्तं शरवर्षेण महता समवाकिरत्।
व्यशातयच्च सङ्क्रुद्धो धृष्टद्युम्नममर्षणम्॥ 7-192-13(53963)
शरांश्च शतधा तस्य द्रोणश्चिच्छेद सायकैः।
ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत्॥ 7-192-14(53964)
धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम्।
शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे॥ 7-192-15(53965)
सोऽतिविद्धो महेष्वासोऽसम्भ्रान्त इव संयुगे।
भल्लेन शितधारेण चिच्छेदास्य पुनर्धनुः॥ 7-192-16(53966)
यच्चास्य बाणविकृतं धनूंषि च विशाम्पते।
सर्वं चिच्छेद दुर्धर्षो गदां खङ्गं च वर्जयन्॥ 7-192-17(53967)
धृष्टद्युम्नं च विव्याध नवभिर्निशितैः शरैः।
जीवितान्तकरैः क्रुद्धः शिलाधौतैः परन्तपः॥ 7-192-18(53968)
धृष्टद्युम्नोऽथ तस्याश्वान्खरथाश्वैर्महारथः।
व्यामिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन्॥ 7-192-19(53969)
ते मिश्रा बह्वशोभन्त जवना वातरंहसः।
पारावतसवर्णाश्च शोणाश्च भरतर्षभ॥ 7-192-20(53970)
यथा सविद्युतो मेघा नदन्तो जलदागमे।
तथा रेजुर्महाराज मिश्रिता रणमूर्धनि॥ 7-192-21(53971)
ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च।
प्राणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः॥ 7-192-22(53972)
स च्छिन्नधन्वा पाञ्चाल्यो निकृत्तध्वजसारथिः।
उत्तमामापदं प्राप्य गदां वीरः परामृशत्॥ 7-192-23(53973)
तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः।
निजघानः शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः॥ 7-192-24(53974)
तां तु दृष्ट्वा नरव्याघ्रो द्रोणेन निहतां शरैः।
विमलं खङ्गमादत्त शतचन्द्रं च भानुमत्॥ 7-192-25(53975)
असंशयं तथाभूतः पाञ्चाल्यः साध्वमन्यत।
वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः॥ 7-192-26(53976)
ततः स रथनीडस्थं स्वरथस्य रथेपया।
अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत्॥ 7-192-27(53977)
चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः।
इयेष वक्षो भेत्तुं स भारद्वाजस्य संयुगे॥ 7-192-28(53978)
सोऽतिष्ठद्युगमध्ये वै युगसन्नहनेषु च।
जघनार्धेषु चाश्वानां तत्सैन्याः समपूजयन्॥ 7-192-29(53979)
तिष्ठतो युगपालीपु शोणानप्यधितिष्ठतः।
नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत्॥ 7-192-30(53980)
क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः।
तद्वदासीदभीसारो द्रोमपार्षतयो रणे॥ 7-192-31(53981)
तस्य पारावतानश्वान्रथशक्त्या पराभिनत्।
सर्वानेकैकशो द्रोणो रक्तानश्वान्विवर्जयन्॥ 7-192-32(53982)
ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः।
शोणास्तु पर्यमुच्यन्त रथबन्धाद्विशाम्पते॥ 7-192-33(53983)
तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः।
नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः॥ 7-192-34(53984)
विरथः स गृहीत्वा तु खङ्गं खङ्गभृतां वरः।
द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम्॥ 7-192-35(53985)
तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः।
यथा रूपं पुरा विष्णोर्हिरण्यकशिपोर्वधे॥ 7-192-36(53986)
स तदा विविधान्मर्गान्प्रवरांश्चैकविंशतिम्।
दर्शयामास कौरव्य पार्षतो विचरन्रणे॥ 7-192-37(53987)
भ्रान्तुमुद्धान्तमाविद्धमाप्लुतं प्रसृतं सृतम्।
परिवृत्तं निवृत्तं च खङ्गं चर्म च धारयन्॥ 7-192-38(53988)
सम्पातं समुदीर्णं च दर्शयामास पार्षतः।
भारतं कौशिकं चैव सात्वतं चैव शिक्षया। 7-192-39(53989)
दर्शयन्व्यचरद्युद्धे द्रोणस्यान्तचिकीर्षया॥
चरतस्तस्य तान्मर्गान्विचित्रान्खङ्गचर्मिणः।
व्यस्मयन्त रणे योधा देवताश्च समागताः॥ 7-192-40(53990)
ततः शरसहस्रेण शतचन्द्रमपातयत्।
चर्म खङ्गं च सम्बाधे धृष्टद्युम्नस्य स द्विजः॥ 7-192-41(53991)
ये तु वैतस्तिका नाम शरा आसन्नयोधिनः।
निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः॥ 7-192-42(53992)
ऋते शारद्वतात्पर्थाद्द्रौणेर्वैकर्तनात्तथा।
प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च भारत॥ 7-192-43(53993)
अथास्येषु समाधत्त दृढं परमसम्मतम्।
अन्तेवासिनमाचार्यो जिघांसुः पुत्रसम्मितम्॥ 7-192-44(53994)
तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः।
पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः।
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत्॥ 7-192-45(53995)
चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम्।
द्रोणकर्मान्तरगतं कृपस्यापि च भारत।
अपश्येतां महात्मानौ विष्वक्सेनधनञ्जयौ॥ 7-192-46(53996)
अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधुसाध्विति।
दिव्यान्यस्त्राणि सर्वेषां युधि निघ्न्तमच्युतम्॥ 7-192-47(53997)
धनञ्जयस्ततः कृष्णमब्रवीत्पश्य केशव।
आचार्यरथमुख्यानां मध्ये क्रीडन्मधूद्वहः॥ 7-192-48(53998)
आनन्दयति मां भूयः सात्यकिः परवीरहा।
माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम्॥ 7-192-49(53999)
यच्छिक्षयाऽनुद्धतः सन्रणे चरति सात्यकिः।
महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः॥ 7-192-50(54000)
तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः।
अजय्यं समरे दृष्ट्वा साधुसाध्विति सात्यकिम्।
योधाश्चोभयतः सर्वे कर्मभिः समपूजयन्॥ ॥ 7-192-51(54001)

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि पञ्चदशदिवसयुद्धे द्विनवत्यधिकशततमोऽध्यायः॥ 192 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-192-38 खङ्घं चर्म च धारयन्भ्रान्तादित्रयोदशविधं सञ्चरणं दर्शयामासेति सम्बन्धः॥ 5-192-41 सम्बाधे रणसङ्कटे॥ 5-192-42 वैतस्तिकाः वितस्तिप्रमाणाः॥ 5-192-192 द्विनवत्यधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.